Sanskrit Ruchira-2 संस्कृत रुचिरा 2

Page No 62:
Question 1: प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) वृक्षे का प्रतिवसति स्म?
(ख) वृक्षस्य अधः कः आगतः?
(ग) गजः केन शाखाम् अत्रोटयत्?
(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
(ङ) मक्षिकायाः मित्रं कः आसीत्?

Answer:
(क) वृक्षे चटका प्रतिवसति स्म।
(ख) वृक्षस्य अधः प्रमत्तः गजः आगतः।
(ग) गजः शुण्डेन शाखाम् अत्रोटयत्।
(घ) काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।
(ङ) मक्षिकायाः मित्रं मण्डूकः आसीत्।


Question 2: रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) कालेन चटकायाः सन्ततिः जाता।
(ख) चटकायाः नीडं भुवि अपतत्।
(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।
(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

Answer:
(क) कालेन कस्या: सन्तति: जाता?
(ख) चटकाया: किम् भुवि अपतत्‌?
(ग) कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?
(घ) काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?