Sanskrit Ruchira-2 संस्कृत रुचिरा 2

Page No 10:
Question 4: मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अभिनन्दति  भक्षयिष्यामः  इच्छामि  वदिष्यामि  उड्डीयते  प्रतिवसित  स्म
(क) हंसाभ्यां सह कूर्मोऽपि _ _ _ ।
(ख) अहं किञ्चिदपि न _ _ _ ।
(ग) यः हितकामानां सुहृदां वाक्यं न _ _ _ ।
(घ) एकः कूर्मः अपि तत्रैव _ _ _ ।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् _ _ _ ।
(च) वयं गृहं नीत्वा कूर्मं _ _ _ ।

Answer:
(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते
(ख) अहं किञ्चिदपि न वदिष्यामि
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि
(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः


Question 5: पूर्णवाक्येन उत्तरत-
(क) कच्छपः कुत्र गन्तुम् इच्छति?
(ख) कच्छपः कम् उपायं वदति?
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

Answer:
(क) कच्छप: हंसाभ्यां सह आकाशमार्गेण अन्यत्र स्थाने गन्तुम् इच्छति।
(ख) कच्छप: उपायं वदति “युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अवदन्‌ “हं हो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।”
(घ) कूर्म: मित्रयो: वचनं विस्मृत्य अवदत्‌ “यूयं भस्म खादत”।